(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.180. अध्यायः 180
Mahabharata - Udyoga Parva - Chapter Topics
रामभीष्मसमरवर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-180-0x(3914)(38117)
आत्मनस्तु ततः सूतो हयानां च विशांपते।
मम चापनयामास शल्यान्कुशलसंमतः ॥ 5-180-1(38118)
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः।
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ॥ 5-180-2(38119)
दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥ 5-180-3(38120)
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।
धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात् ॥ 5-180-4(38121)
अभिवाद्य तथैवाहं रथमारुह्य भारत ।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥ 5-180-5(38122)
ततोऽहं शरवर्षेण महता समवाकिरम् ।
स च मां शरवर्षेण वर्षन्तं समवाकिरम्॥ 5-180-6(38123)
संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् ।
संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव ॥ 5-180-7(38124)
ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥ 5-180-8(38125)
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् । 5-180-9(38126)
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्।
ततो विदि महान्नादः प्रादुरासीत्समन्ततः ॥ 5-180-10(38127)
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥ 5-180-11(38128)
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।
वारुणेनैव तद्रामो वारयामास मे विभुः ॥ 5-180-12(38129)
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ॥ 5-180-13(38130)
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः।
उरस्यविध्यत्संक्रुद्धो जामदग्न्यः प्रतापवान् ॥ 5-180-14(38131)
ततोऽहं भारतश्रेष्ठ संन्यषीदं रथोत्तमे।
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत् ॥ 5-180-15(38132)
ग्लायन्तं भरश्रेष्ठ रामबाणप्रपीडितम् ।
ततो मामपयातं वै भृशं विद्धमचेतसम् ॥ 5-180-16(38133)
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ 5-180-17(38134)
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥ 5-180-18(38135)
ततो मामवहत्सूतो हयैः परमशोभितैः ।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥ 5-180-19(38136)
ततोऽहं राममासाद्य बाणवर्षैश्च कौरव ।
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ॥ 5-180-20(38137)
तानापतत एवासौ रामो बाणानजिह्मगान्।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥ 5-180-21(38138)
ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः ।
रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः ॥ 5-180-22(38139)
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।
असृजं जामदग्न्याय रामायाहं जिघांसया ॥ 5-180-23(38140)
तेन त्वभिहतो गाढं बाणवेगवशं गतः।
मुमोह समरे रामो भूमौ च निपपात ह ॥ 5-180-24(38141)
ततो हाहाकृतं कसर्वं रामे भूतलमाश्रिते ।
जगद्भारत संविग्नं यथार्कपतने भवेत् ॥ 5-180-25(38142)
तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः ।
तपोधनास्ते सहसा काश्या च कुरुनन्दन ॥ 5-180-26(38143)
तत एनं परिष्वज्य शनैराश्वासयंस्तदा ।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥ 5-180-27(38144)
ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्।
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥ 5-180-28(38145)
स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे ।
येनाहं भृशमुद्विग्रो व्याघूर्णित इव द्रुमः ॥ 5-180-29(38146)
हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे ।
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ॥ 5-180-30(38147)
ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् ।
अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः ॥ 5-180-31(38148)
रामस्य मम चैवाशु व्योमावृत्य समन्ततः।
न स्म सूर्यः प्रतपति शरजालसमावृतः ॥ 5-180-32(38149)
मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् ।
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ॥ 5-180-33(38150)
अभिघातप्रभावाच्च पावकः समजायत ।
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ॥ 5-180-34(38151)
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ।
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ॥ 5-180-35(38152)
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत् ॥ 5-180-36(38153)
ततोऽहं तानपि रणे शरैराशीविषोपमैः ।
संछिद्य भूमौ नृपते पातयेयं नगानिव ॥ 5-180-37(38154)
एवं तदभवद्युद्वं तदा भरतसत्तम ।
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥ ॥ 5-180-38(38155)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अशीत्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.